Глава 1-я, шлоки с 92-го по 103-й «Маха́бха́рата-та́тпарйа-нирная»
सर्वैर्गुणैर्ब्रह्मणा तु समुपास्यो हरिः सदा ।
आनन्दो ज्ञः सदात्मेति ह्युपास्यो मानुषैर्हरिः । १.९२ ।
यथाक्रमं गुणोद्रेकात्तदन्यैरा विरिञ्चतः ।
ब्रह्मत्वयोग्या ऋजवो नाम देवाः पृथग्गणाः । १.९३ ।
तैरेवाप्यं पदं तत्तु नैवान्यैः साधनैरपि ।
एवं सर्वपदानां तु योग्याः सन्ति पृथग्गणाः । १.९४ ।
तस्मादनाद्यनन्तं हि तारतम्यं चिदात्मनाम् ।
तच्च नैवान्यथा कर्तुं शक्यं केनापि कुत्रचित् । १.९५ ।
अयोग्यमिच्छन् पुरुषः पतत्येव न सं शयः ।
तस्माद्योग्यानुसारेण सेव्यो विष्णुः सदैव हि । १.९६ ।
अच्छिद्रसेवनाच्चैव निष्कामत्वाच्च योग्यतः ।
द्रष्टुं शक्यो हरिः सर्वैर्नान्यथा तु कथञ्चन । १.९७ ।. «Брахма́ поклоняется Хари́ (Вишну), созерцая все Его Качества (упомянутые в Ведах)...